हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Dattatreya Ashtottara Shatanama Stotram 1 – श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम्


अस्य श्रीदत्तात्रेयाष्टोत्तरशतनाम स्तोत्रमहामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः, श्रीदत्तात्रेयो देवता, अनुष्टुप् छन्दः, श्रीदत्तात्रेय प्रीत्यर्थे नामपरायणे विनियोगः ।

करन्यासः –
ओं द्रां अङ्गुष्ठाभ्यां नमः ।
ओं द्रीं तर्जनीभ्यां नमः ।
ओं द्रूं मध्यमाभ्यां नमः ।
ओं द्रैं अनामिकाभ्यां नमः ।
ओं द्रौं कनिष्ठिकाभ्यां नमः ।
ओं द्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं द्रां हृदयाय नमः ।
ओं द्रीं शिरसे स्वाहा ।
ओं द्रूं शिखायै वषट् ।
ओं द्रैं कवचाय हुम् ।
ओं द्रौं नेत्रत्रयाय वौषट् ।
ओं द्रः अस्त्राय फट् ।
ओं भूर्भुवः सुवरोमिति दिग्बन्धः ।

ध्यानम् ।
दिगम्बरं भस्मविलेपिताङ्गं
चक्रं त्रिशूलं डमरुं गदां च ।
पद्माननं योगिमुनीन्द्र वन्द्यं
ध्यायामि तं दत्तमभीष्टसिद्ध्यै ॥

लमित्यादि पञ्चपूजाः ।
ओं लं पृथिवीतत्त्वात्मने श्रीदत्तात्रेयाय नमः गन्धं परिकल्पयामि ।
ओं हं आकाशतत्त्वात्मने श्रीदत्तात्रेयाय नमः पुष्पं परिकल्पयामि ।
ओं यं वायुतत्त्वात्मने श्रीदत्तात्रेयाय नमः धूपं परिकल्पयामि ।
ओं रं वह्नितत्त्वात्मने श्रीदत्तात्रेयाय नमः दीपं परिकल्पयामि ।
ओं वं अमृततत्त्वात्मने श्रीदत्तात्रेयाय नमः अमृतनैवेद्यं परिकल्पयामि ।
ओं सं सर्वतत्त्वात्मने श्रीदत्तात्रेयाय नमः सर्वोपचारान् परिकल्पयामि ।

अथ स्तोत्रम् ।
अनसूयासुतो दत्तो ह्यत्रिपुत्रो महामुनिः ।
योगीन्द्रः पुण्यपुरुषो देवेशो जगदीश्वरः ॥ १ ॥

परमात्मा परं ब्रह्म सदानन्दो जगद्गुरुः ।
नित्यतृप्तो निर्विकारो निर्विकल्पो निरञ्जनः ॥ २ ॥

गुणात्मको गुणातीतो ब्रह्मविष्णुशिवात्मकः ।
नानारूपधरो नित्यः शान्तो दान्तः कृपानिधिः ॥ ३ ॥

भक्तिप्रियो भवहरो भगवान्भवनाशनः ।
आदिदेवो महादेवः सर्वेशो भुवनेश्वरः ॥ ४ ॥

वेदान्तवेद्यो वरदो विश्वरूपोऽव्ययो हरिः ।
सच्चिदानन्दः सर्वेशो योगीशो भक्तवत्सलः ॥ ५ ॥

दिगम्बरो दिव्यमूर्तिर्दिव्यभूतिविभूषणः ।
अनादिसिद्धः सुलभो भक्तवाञ्छितदायकः ॥ ६ ॥

एकोऽनेको ह्यद्वितीयो निगमागमपण्डितः ।
भुक्तिमुक्तिप्रदाता च कार्तवीर्यवरप्रदः ॥ ७ ॥

शाश्वताङ्गो विशुद्धात्मा विश्वात्मा विश्वतोमुखः ।
सर्वेश्वरः सदातुष्टः सर्वमङ्गलदायकः ॥ ८ ॥

निष्कलङ्को निराभासो निर्विकल्पो निराश्रयः ।
पुरुषोत्तमो लोकनाथः पुराणपुरुषोऽनघः ॥ ९ ॥

अपारमहिमाऽनन्तो ह्याद्यन्तरहिताकृतिः ।
संसारवनदावाग्निर्भवसागरतारकः ॥ १० ॥

श्रीनिवासो विशालाक्षः क्षीराब्धिशयनोऽच्युतः ।
सर्वपापक्षयकरस्तापत्रयनिवारणः ॥ ११ ॥

लोकेशः सर्वभूतेशो व्यापकः करुणामयः ।
ब्रह्मादिवन्दितपदो मुनिवन्द्यः स्तुतिप्रियः ॥ १२ ॥

नामरूपक्रियातीतो निःस्पृहो निर्मलात्मकः ।
मायाधीशो महात्मा च महादेवो महेश्वरः ॥ १३ ॥

व्याघ्रचर्माम्बरधरो नागकुण्डलभूषणः ।
सर्वलक्षणसम्पूर्णः सर्वसिद्धिप्रदायकः ॥ १४ ॥

सर्वज्ञः करुणासिन्धुः सर्पहारः सदाशिवः ।
सह्याद्रिवासः सर्वात्मा भवबन्धविमोचनः ।
विश्वम्भरो विश्वनाथो जगन्नाथो जगत्प्रभुः ॥ १५ ॥

ओं भूर्भुवः सुवरोमिति दिग्विमोकः ॥

नित्यं पठति यो भक्त्या सर्वपापैः प्रमुच्यते ।
सर्वदुःखप्रशमनं सर्वारिष्टनिवारणम् ॥ १६ ॥

भोगमोक्षप्रदं नृणां दत्तसायुज्यदायकम् ।
पठन्ति ये प्रयत्नेन सत्यं सत्यं वदाम्यहम् ॥ १७ ॥

इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् ।


Guru Stotras – श्री गुरु स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.